Our Vision

Vision (दृष्टि:)

भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति विचारं दृष्टिं च मनसि निधाय मिथिलायाः ग्रामीणक्षेत्रे  संस्कृतस्य संस्कृतेश्च संरक्षणाय संवर्द्धनाय च पूर्वतः संलग्नाः कटिबद्धाः ग्रामीणजनाश्छात्राश्च पुनर्जागरुकाः सम्प्रेरिता भवेयुरेतदर्थमेव महाविद्यालयस्यास्य स्थापनाऽभूत् । सम्पूर्णे भारतवर्षे संस्कृतमहाविद्यालयादस्मात् पारम्परिकं शास्त्रीयज्ञानञ्चाधिगत्य छात्राः सामाजिकाश्च मिथिलाया गौरवं संवर्धयन्त्विति महाविद्यालयस्य दृष्टिः।