Our Mission

Mission (लक्ष्‍यम्) 

१.  ग्रामीणजनेषु छात्रेषु च संस्कृतम्प्रत्यभिरुचिजागरणं मुख्यं लक्ष्यम् ।

२.  मिथिलायां शास्त्रपरम्परा अतीवप्राचीना प्रसिद्धा च वर्तते। अस्याः परम्परायाः संरक्षणं संवर्धनञ्च    

    महाविद्यालयस्य  सारस्वतं लक्ष्यं वर्तते ।

३.  इयं संस्था ग्रामीणक्षेत्रे वर्तते तत्र जनेषु वैदिक-कर्मकाण्डादीनां षोडशसंस्काराणाञ्च सम्यक् परिज्ञानं 

    परिपालनञ्च भवेदित्यर्थं महाविद्यालयद्वारा सततप्रयासः विधीयते । षोडशसंस्काराणां परिपालने 

    संस्कृतव्याकरणस्य ज्ञानमावश्यकं भवति । अतः सामाजिकाः शुद्धिमशुद्धिं च परिभाव्य व्यावहारिकजीवने  

    सम्यक् रीत्या कर्मकाण्डं सम्पादयेयुरिति महाविद्यालयस्य व्यावहारिकं लक्ष्यम् ।

४. संस्कृतसम्भाषणविविधसंगोष्ठ्यादीनां समायोजनेन समाजे संस्कृतस्य प्रचारः प्रसारः।

५.  नवशिक्षानीतिसाहाय्येन भारतीयज्ञानपरम्परायाः सम्पोषणम् ।